
प्रोपाभ्यां युजेरयज्ञपात्रेषु ।
समः क्ष्णुवः ।
भुजोऽनवने ।
णेरणौ यत् कर्म णौ चेत् स कर्ताऽनाध्याने ।
भीस्म्योर्हेतुभये ।
गृधिवञ्च्योः प्रलम्भने ।
लियः सम्माननशालिनीकरणयोश्च ।
मिथ्योपपदात् कृञोऽभ्यासे ।
स्वरितञितः कर्त्रभिप्राये क्रियाफले ।
अपाद्वदः ।
णिचश्च ।
समुदाङ्भ्यो यमोऽग्रन्थे ।
अनुपसर्गाज्ज्ञः ।
विभाषोपपदेन प्रतीयमाने ।
शेषात् कर्तरि परस्मैपदम् ।
अनुपराभ्यां कृञः ।
अभिप्रत्यतिभ्